
नमः शिवाय मंत्रेणार्चनद्रव्यं च प्रोक्षयेत् ।भूरसीति च मंत्रेण क्षेत्रसिद्धिं प्रकारयेत् ॥आपोऽस्मानिति मंत्रेण जलसंस्कारमाचरेत् ।नमस्ते रुद्र मंत्रेण स्फाटिकाबंधमुच्यते ॥शंभवायेति मंत्रेण क्षेत्रशुद्धिं प्रकारयेत् ।नमः पूर्वेण कुर्यात्पंचामृतस्यापि प्रोक्षणम् ॥नीलग्रीवाय मंत्रेण नमः पूर्वेण भक्तिमान् ।चरेच्छंकरलिंगस्य प्रतिष्ठापनमुत्तमम् ॥भक्तितस्तत एतत्ते रुद्रायेति च मंत्रतः ।आसनं रमणीयं वै दद्याद्वैदिकमार्गकृत् ॥मानो महान्तमिति च मंत्रेणावाहनं चरेत् ।या ते रुद्रेण मंत्रेण संचरेदुपवेशनम् ॥मंत्रेण यामिषुमिति न्यासं कुर्य्याच्छिवस्य च ।अध्यवोचदिति प्रेम्णाधिवासं मनुनाचरेत् ॥मनुनासौ जीव इति देवतान्यासमाचरेत् ।असौ योऽवसर्पतीति चाचरेदपसर्पणम् ॥नमोऽस्तु नीलग्रीवायेति पाद्यं मनुनाहरेत् ।अर्घ्यं च रुद्र गायत्र्याऽचमनं त्र्यंबकेण च ॥पयः पृथिव्यामिति च पयसा स्नानमाचरेत् ।दधिक्राव्णेतिमंत्रेण दधिस्नानं च कारयेत् ॥घृतस्नाने खलु घृतं घृतपावेति मंत्रतः ।मधुवाता मधुनक्तं मधुमान्न इति त्र्यृचा ॥मधुखंडस्नपनं प्रोक्तमिति पंचामृतं स्मृतम् ।अथवा पाद्यमंत्रेण स्नानं पंचामृतेन च ॥मानस्तोके इति प्रेम्णा मंत्रेण कटिबंधनम् ।नमो धृष्णवे इति वा उत्तरीयं च धापयेत् ॥या ते हेतिरिति प्रेम्णा ऋक्चतुष्केण वैदिकः ।शिवाय विधिना भक्तश्चरेद्वस्त्रसमर्पणम् ॥नमः श्वभ्य इति प्रेम्णा गंधं दद्यादृचा सुधीः ।नमस्तक्षभ्य इति चाक्षतान्मंत्रेण चार्पयेत् ॥नमः पार्याय इति वा पुष्प मंत्रेण चार्पयेत् ।नमः पर्ण्याय इति वा बिल्वपत्रसमर्पणम् ॥नमः कपर्दिने चेति धूपं दद्याद्यथाविधि ।दीपं दद्याद्यथोक्तं तु नम आशव इत्यृचा ॥नमो ज्येष्ठाय मंत्रेण दद्यान्नैवेद्यमुत्तमम् ।मनुना त्र्यम्बकमिति पुनराचमनं स्मृतम् ॥इमा रुद्रायेति ऋचा कुर्यात्फलसमर्पणम् ।नमो व्रज्यायेति ऋचा सकलं शंभवेऽर्पयेत् ॥मानो महान्तमिति च मानस्तोके इति ततः ।मंत्रद्वयेनैकदशाक्षतै रुद्रान्प्रपूजयेत् ॥हिरण्यगर्भ इति त्र्! यृचा दक्षिणां हि समर्पयेत् ।देवस्य त्वेति मंत्रेण ह्यभिषेकं चरेद्बुधः ॥दीपमंत्रेण वा शंभोर्नीराजनविधिं चरेत् ।पुष्पाञ्जलिं चरेद्भक्त्या इमा रुद्राय च त्र्यृचा ॥मानो महान्तमिति च चरेत्प्राज्ञः प्रदक्षिणाम् ।मानस्तोकेति मंत्रेण साष्टाङ्गं प्रणमेत्सुधीः ॥एष ते इति मंत्रेण शिवमुद्रां प्रदर्शयेत् ।यतोयत इत्यभयां ज्ञानाख्यां त्र्यंबकेण च ॥नमः सेनेति मंत्रेण महामुद्रां प्रदर्शयेत् ।दर्शयेद्धेनुमुद्रां च नमो गोभ्य ऋचानया ॥पंचमुद्राः प्रदर्श्याथ शिवमंत्रजपं चरेत् ।शतरुद्रियमंत्रेण जपेद्वेदविचक्षणः ॥ततः पंचाङ्गपाठं च कुर्य्याद्वेदविचक्षणः ।देवागात्विति मंत्रेण कुर्याच्छंभोर्विसर्जनम् ॥इत्युक्तः शिवपूजाया व्यासतो वैदिकोविधिः ।समासतश्च शृणुत वैदिकं विधिमुत्तमम् ॥ऋचा सद्योजातमिति मृदाहरणमाचरेत् ।वामदेवाय इति च जलप्रक्षेपमाचरेत् ॥अघोरेण च मंत्रेण लिङ्गनिर्माणमाचरेत् ।तत्पुरुषाय मंत्रेणाह्वानं कुर्याद्यथाविधि ॥संयोजयेद्वेदिकायामीशानमनुना हरम् ।अन्यत्सर्वं विधानं च कुर्य्यात्संक्षेपतः सुधीः ॥पंचाक्षरेण मंत्रेण गुरुदत्तेन वा तथा ।कुर्यात्पूजां षोडशोपचारेण विधिवत्सुधीः ॥भवाय भवनाशाय महादेवाय धीमहि ।उग्राय उग्रनाशाय शर्वाय शशिमौलिने ॥अनेन मनुना वापि पूजयेच्छंकरं सुधीः ।सुभक्त्या च भ्रमं त्यक्त्वा भक्त्यैव फलदः शिवः ॥इत्यपि प्रोक्तमादृत्य वैदिकक्रमपूजनम् ।प्रोच्यतेऽन्यविधिः सम्यक्साधारणतया द्विजः ॥पूजा पार्थिवलिंगस्य संप्रोक्ता शिवनामभिः ।तां शृणुध्वं मुनिश्रेष्ठाः सर्वकामप्रदायिनीम् ॥हरो महेश्वरः शंभुः शूलपाणिः पिनाकधृक् ।शिवः पशुपतिश्चैव महादेव इति क्रमात् ॥मृदाहरणसंघट्टप्रतिष्ठाह्वानमेव च ।स्नपनं पूजनं चैव क्षमस्वेति विसर्जनम् ॥ॐकारादिचतुर्थ्यंतैर्नमोन्तैर्नामभिः क्रमात् ।कर्तव्या च क्रिया सर्वा भक्त्या परमया मुदा ॥कृत्वा न्यासविधिं सम्यक् षडङ्गंकरयोस्तथा ।षडक्षरेण मंत्रेण ततो ध्यानं समाचरेत् ॥कैलासपीठासनमध्यसंस्थंभक्तैः सनंदादिभिरर्च्यमानम् ।
भक्तार्तिदावानलमप्रमेयंध्यायेदुमालिंगितविश्वभूषणम् ॥ध्यायेन्नित्यं महेशं रजतगिरिनिभं चारुचंद्रा वतंसंरत्नाकल्पोज्ज्वलांगं परशुमृगवराभीतिहस्तं प्रसन्नम् ।
पद्मासीनं समंतात्स्तुतममरगणैर्व्याघ्रकृत्तिं वसानंविश्वाद्यं विश्वबीजं निखिलभयहरं पंचवक्त्रं त्रिनेत्रम् ॥इति ध्यात्वा च संपूज्य पार्थिवं लिंगमुत्तमम् ।जपेत्पंचाक्षरं मंत्रं गुरुदत्तं यथाविधि ॥स्तुतिभिश्चैव देवेशं स्तुवीत प्रणमन्सुधीः ।नानाभिधाभिर्विप्रेन्द्राः पठेद्वै शतरुद्रियम् ॥ततः साक्षतपुष्पाणि गृहीत्वाञ्जलिना मुदा ।प्रार्थयेच्छंकरं भक्त्या मंत्रैरेभिः सुभक्तितः ॥तावकस्त्वद्गुणप्राणस्त्वच्चित्तोऽहं सदा मृड ।कृपानिध इति ज्ञात्वा भूतनाथ प्रसीद मे ॥अज्ञानाद्यदि वा ज्ञानाज्जप पूजादिकं मया ।कृतं तदस्तु सफलं कृपया तव शंकर ॥अहं पापी महानद्य पावनश्च भवान्महान् ।इति विज्ञाय गौरीश यदिच्छसि तथा कुरु ॥वेदैः पुराणैः सिद्धान्तैरृषिभिर्विविधैरपि ।न ज्ञातोऽसि महादेव कुतोऽहं त्वं महाशिव ॥यथा तथा त्वदीयोऽस्मि सर्वभावैर्महेश्वर ।रक्षणीयस्त्वयाहं वै प्रसीद परमेश्वर ॥इत्येवं चाक्षतान्पुष्पानारोप्य च शिवोपरि ।प्रणमेद्भक्तितश्शंभुं साष्टांगं विधिवन्मुने ॥ततः प्रदक्षिणां कुर्याद्यथोक्तविधिना सुधीः ।पुनः स्तुवीत देवेशं स्तुतिभिः श्रद्धयान्वितः ॥ततो गलरवं कृत्वा प्रणमेच्छुचिनम्रधीः ।कुर्याद्विज्ञप्तिमादृत्य विसर्जनमथाचरेत् ॥इत्युक्ता मुनिशार्दूलाः पार्थिवार्चा विधानतः ।भुक्तिदा मुक्तिदा चैव शिवभक्तिविवर्धिनी ॥
