
॥ श्रीगुरुभ्यो नमः ॥
॥ श्रीमहागणाधिपतये नमः ॥॥ शिवरहस्योक्त गणेशकृत रुद्रनमक चमकम् ॥ततः प्रणम्य बहुधा कृतांजलिपुटः प्रभुं ।शंभु स्तोतुं मतिं चक्रे सर्वाभीष्टप्रदायकम् ॥
गणाधीश उवाच
॥ नमकः ॥
नमस्ते देवदेवाय नमस्ते रुद्रमन्यवे ।नमस्ते चंद्रचूडायाप्युतोत इषवे नमः ॥१॥
नमस्ते पार्वतीकान्त नमस्ते मेरुधन्वने ।नमस्ते भगवान् शंभो बाहुभ्यामुत ते नमः ॥२॥
इषुः शिवतमा या ते तया मृडय रुद्र मां ।शिवं धनुर्यदद्भूव तेनापि मृडयाधुना ॥३॥
शरव्या या शिवतमा तयापि मृडया प्रभो ।या ते रुद्र शिवा नित्यं सर्वमङ्गलसाधनम् ॥४॥तयाभिचाकशीहि त्वं तनुवा मामुमापते ।अघोरयापि तनुवा रुद्राद्या पापकाशिनी ॥५॥
या तया मृडय स्वामिन् सदा शन्तमया प्रभो ।गिरिशन्तं महारुद्र हस्ते यामिषु मस्तवे ॥६॥
बिभर्षि तां गिरित्राद्य शिवां कुरु शिवांपते ।शिवेन वचसा रुद्र नित्यं त्वाच्छादयामसि ॥७॥
त्वद्भक्तिपरिपूतांगं मा हिंसीः पुरुषं जगत् ।यन्नः शर्व जगत्सर्वमयक्ष्म सुमनाभवत् ॥८॥यथा तथाव मां रुद्र तदन्यदपि मे प्रभो ।रुद्र त्वं प्रथमो दैव्यो भिषक् पाप विनाशकः ॥९॥
अधिवक्ताध्यवोचन्मा भवलिंगार्चकं मुदा ।अहीन् सर्वान्यातुधान्यः सर्वा अप्यद्य जंभयन् ॥१०॥
असौ ताम्रोऽरुणो बभ्रुः नीलग्रीवो सुमंगलः ।विलोहितोऽस्त्ययं शंभो त्वदधिष्ठानमेव हि ॥११॥
नमो नमस्ते भगवन्नीलग्रीवाय मीढुषे ।सहस्राक्षाय शुद्धाय सच्चिदानन्द मूर्तये ॥१२॥उभयोरार्लियोर्ज्याया धन्वनस्तां प्रमुंचतां ।संप्राप्य धनुरन्येषां भयाय प्रभविष्यति ॥१३॥
अस्मद्भय विनाशार्थमधुनाभयद प्रभो ।याश्च ते हस्त इषवः परा ता भगवो वप ॥१४॥
अवतत्य धनुस्तत्वं सहस्राक्ष शतेषुधे ।मुखा निशीर्य शल्यानां शिवो नः सुमना भव ॥१५॥
विज्यं धनुरिदं भूयाद्विशल्यो बाणवानपि ।अनेशन्निषवोऽप्यस्याप्याभुरस्य निषंगधिः ॥१६॥कपर्दिनो महेशस्य यदि नाभूर्निषंगदीः ।इषवोऽपि समर्थाश्चेत्साग्रत्वे न भयं भवेत् ॥१७॥
या ते हेतिर्धनुर्हस्ते मीढुष्टुम बभूव या ।तयास्मान्विश्वतस्तेन पालय त्वमयक्ष्मया ॥१८॥
अनाततायायुधाय नमस्ते धृष्णवे नमः ।बाहुभ्यां धन्वने शंभो नमो भूयो नमो नमः ॥१९॥
परि ते धन्वनो हेतिर्विश्वतोऽस्मान् वृणक्तु सः ।इषुधिस्तव यस्तावदस्मदारे निधेहि तम् ॥२०॥हिरण्य बाहवे तुभ्यं सेनान्ये ते नमो नमः।दिशां च पतये तुभ्यं पशूनां पतये नमः ॥२१॥
त्विषीमते नमस्तुभ्यं नमस्सस्पंजरायते ।नमः पथीनां पतये बभ्लुषाय नमो नमः ॥२२॥
नमो विव्याधिनेन्नानां पतये प्रभवे नमः ।नमस्ते हरिकेशाय रुद्रायास्तूपवीतिने ॥२३॥
पुष्टानां जगते तुभ्यं जगतां पतये नमः ।संसारहेतिरूपाय रुद्रायाप्याततायिने ॥२४॥क्षेत्राणां पतये तुभ्यं सूताय सुकृतात्मने ।अहंत्याय नमस्तुभ्यं वनानां पतये नमः ॥२५॥
रोहिताय स्थपतये मन्त्रिणे वाणिजाय च ।कक्षाणां पतये तुभ्यं नमस्तुभ्यं भुवन्तये ॥२६॥
तद्वारिवस्कृतायास्तु महादेवाय ते नमः ।ओषधीनां च पतये नमस्तुभ्यं महात्मने ॥२७॥
उच्चैर्घोषाय धीराय धीराक्रन्दयते नमः ।पत्तीनां पतये तुभ्यं कृत्स्नवीताय ते नमः ॥२८॥धावते धवलायापि सत्वानां पतये नमः ।नमस्ते सहमानाय तुभ्यं विव्याधिने नमः ॥२९॥
आव्याधिनीनां पतये ककुभाय निषंगिणे ।सेनानां पतये तुभ्यं दिव्येषुधिमते नमः ॥३०॥
तस्कराणां च पतये वंचते परिवंचते ।स्तायूनां पतये तुभ्यं नमस्तेस्तु निचेरवे ॥३१॥
नमः परिचरायापि महारुद्राय ते नमः ।आरण्यानां च पतये मुष्णतां पतये नमः ॥३२॥उष्णीषिणे नमस्तुभ्यं नमो गिरिचराय ते ।कुलुंचानांच पतये नमस्तेस्तु भवाय च ॥३३॥
नमो रुद्राय शर्वाय तुभ्यं पशुपतये नमः ।नमः उग्राय भीमाय नम ऽअग्रेवधाय च ॥ ३४॥
नमो दूरेवधायापि नमो हन्त्रे नमो नमः ।हनीयसे नमस्तुभ्यं नीलग्रीवाय ते नमः ॥३५॥
नमस्ते शितिकंठाय नमस्तेस्तु कपर्दिने ।नमस्ते व्युप्तकेशाय सहस्राक्षाय मीढुषे ॥३६॥गिरिशाय नमस्तेऽस्तु शिपिविष्टाय ते नमः ।नमस्ते शंभवे तुभ्यं मयोभव नमोस्तुते ॥३७॥
मयस्कर नमस्तुभ्यं शंकराय नमो नमः ।नमः शिवाय शर्वाय नमः शिवतराय च ॥३८॥
नमस्तीर्थ्याय कूल्याय नमः पार्याय ते नमः ।अवार्याय नमस्तेऽस्तु नमः प्रतरणाय च ॥३९॥
नम ऽउत्तरणायापि हरायार्ताय ते नमः ।आलाद्याय नमस्तेऽस्तु भक्तानां वरदाय च ॥४०॥नमः शष्प्याय फेन्याय सिकत्याय च नमो नमः ।प्रवाह्याय नमस्तेऽस्तु ह्रस्वायास्तु नमो नमः ॥४१॥
वामनाय नमस्तेऽस्तु नमोऽस्तु बृहते नमः ।वर्षीयसे नमस्तेऽस्तु नमो वृद्धाय ते नमः ॥४२॥
संवृध्वने नमस्तुभ्यमग्रियाय नमो नमः ।प्रथमाय नमस्तुभ्यमाशवे चाजिराय च ॥४३॥
शीघ्रियाय नमस्तुभ्यं शीभ्याय च नमो नमः ।नम ऽऊर्व्याय सूर्व्यायप्यवस्वन्याय ते नमः ॥४४॥स्रोतस्याय नमस्तुभ्यं द्वीप्याय च नमो नमः ।ज्येष्ठाय नमस्तुभ्यं कनिष्ठाय च ते नमः ॥४५॥
पूर्वजाय नमस्तुभ्यं नमोस्त्वपरजाय च ।मध्यमाय नमस्तुभ्यमफगल्फाय ते नमः ॥४६॥
जघन्याय नमस्तुभ्यं बुध्नियाय नमो नमः ।सोभ्याय प्रतिसर्याय याम्याय च नमो नमः ॥४७॥
क्षेम्याय च नमस्तुभ्यं याम्याय च नमो नमः ।उर्वर्याय नमस्तुभ्यं खल्याय च नमो नमः ॥४८॥श्लोक्याय चा वसान्यायावस्वन्याय च ते नमः ।नमो वन्याय कक्ष्याय मौंज्याय च नमो नमः ॥४९॥
श्रवाय च नमस्तुभ्यं प्रतिश्रव नमो नमः ।आशुषेणाय शूराय नमोऽस्त्वाशुरथाय च ॥५०॥
वरूथिने वर्मिणे च बिल्मिने च नमो नमः ।प्रहिताय नमस्तुभ्यं धृष्णवे प्रहिताय च ॥५१॥
पाराय पारविंदाय नमस्तीक्ष्णेषवे नमः ।सुधन्वने नमस्तुभ्यं स्वायुधाय नमो नमः ॥५२॥नमः श्रुत्याय पथ्याय नमः काट्याय ते नमः ।नमो नीप्याय सूद्याय सरस्याय च ते नमः ॥५३॥
नमो नाद्याय भव्याय वैशन्ताय च ते नमः ।अवट्याय नमस्तुभ्यं नमः कूप्याय ते नमः ॥५४॥
अवर्ष्याय च वर्ष्याय च मेघ्याय च नमो नमः ।विद्युत्याय नमस्तुभ्यमीन्द्रीयाय नमो नमः ॥५५॥
आतप्याय नमस्तुभ्यं वात्याय च नमो नमः ।रेष्म्याय च नमस्तुभ्यं वास्तव्याय च ते नमः ॥५६॥वास्तुपाय नमस्तेऽस्तु नमः सोमाय ते नमः ।नमो रुद्राय ताम्रायाप्यरुणाय च ते नमः ॥५७॥
नम उग्राय भीमाय नमः शंगाय ते नमः ।नमस्तीर्थ्यायान कूल्याय सिकत्याय च ते नमः ॥५८॥प्रवाह्याय नमस्तुभ्यमिरिण्याय च ते नमः।नमस्ते चंद्रचूडाय प्रपथ्याय च ते नमः ॥५९॥
किंशिलाय नमस्तेस्तु क्षयणाय च ते नमः ।कपर्दिने नमस्तेऽस्तु नमस्तेऽस्तु पुलस्तये ॥६०॥नमो गोष्याय गृह्याय ग्रहाणां पतये नमः ।नमस्तल्प्याय गेहाय गुहावासाय ते नमः ॥६१॥
काट्याय गह्वरेष्ठाय हृदयाय च ते नमः ।निवेष्याय नमस्तुभ्यं पांसव्याय च ते नमः ॥६२॥
रजस्याय नमस्तुभ्यं परात्परतराय च ।नमस्ते हरिकेशाय शुष्क्याय च नमो नमः ॥६३॥
हरित्याय नमस्तुभ्यं हरिद्वर्णाय ते नमः ।नम ऊर्म्याय सूर्म्याय पर्याय च नमो नमः ॥६४॥नमोऽपगुरमाणाय पर्णशद्याय ते नमः ।अभिघ्नते चाख्खिदते नमः प्रख्खिदते नमः ॥६५॥
विश्वरूपाय विश्वाय विश्वाधाराय ते नमः ।त्रियंबकाय रुद्राय गिरिजापतये नमः ॥६६॥
मणिकोटीरकूटस्थ कान्तिदीप्ताय ते नमः ।वेदवेदान्तवेद्याय वृषारूढाय ते नमः ॥६७॥
अविज्ञेयस्वरूपाय सुन्दराय नमो नमः।उमाकान्तनमस्तेऽस्तु नमस्ते सर्वसाक्षिणे ॥६८॥हिरण्यबाहवे तुभ्यं हिरण्याभरणाय च ।नमो हिरण्यरूपाय रूपातीताय ते नमः ॥६९॥
हिरण्यपतये तुभ्यं अंबिकापतये नमः ।तदुमापतये तुभ्यं नमः पापप्रणाशक ॥७०॥
मीढुष्टमाय भर्गाय कद्रद्राय प्रचेतसे ।तव्यसे बिल्वपूज्याय नमः कल्याणरूपिणे ॥७१॥
अपारकल्याणगुणार्णवाय श्री नीलकंठाय निरंजनाय ।कालान्तकायापि-नमोनमस्ते दिक्कालरूपाय नमोनमस्ते ॥७२॥वेदान्तवेदिस्तुतसद्गुणाय गुणप्रवीण गुणाश्रयाय ।श्रीविश्वनाथायनमोनमस्ते काशीनिवासायनमोनमस्ते ॥७३॥
अजातसौन्दर्यसुधानिधान समृद्धिरूपायशिवाधवाय।धाराधराकारनमोनमस्ते धारास्वरूपाय नमोनमस्ते ॥७४॥
नीहारतारकरकाकराग प्रकारहाराप्रतिहारकाय ।वीरेश्वरापारदयानिधान पाहिप्रभो पाहि नमोनमस्ते ॥७५॥
॥स्वस्ति श्री शिवरहस्ये हराख्ये तृतीयांशे पूर्वार्धे गणेशकृत रुद्राध्याय स्तुतिर्नाम दशमः॥ साम्बसदाशिवार्पणमस्तु ॥
आगमोक्त नमक
आगमोक्त चमक
नमो नमस्ते गिरिजा सहायनमो नमस्ते सुकृत स्वरूप ।
नमो नमस्तेऽन्नपते महेशनमो नमस्तेऽस्तु नमो नमस्ते ॥१॥
त्वत्पादांबुजभक्तिर्मे निश्चला भवतु प्रभो ।त्वमेव शरणं शंभो गतिस्त्वं जगतां प्रभो ॥२॥
कर्माण्यस्य फलोन्मुखानि भगवंस्-त्वत्पादपद्म यतो
दृष्टं दोषविवर्जितं सुखयुतंतावत्करोति स्वतः ।
तत्तावन्मुनिवृंदमानसमनःपद्मप्रविष्टं प्रभो
तन्मे मानस पंकजे क्षणमितिस्वामिन्मुदे जायताम् ॥३॥
वाजश्चमेऽस्तु प्रसवश्चमेऽस्तुत्वत्पूजया सा प्रयतिश्च मेऽस्तु।
महेश्वराशु-प्रसितिश्च-मेऽस्तुध्वीतिश्चमेऽस्तु-ऋतुरस्तु-शंभु ॥४॥
स्वरश्च मेऽस्तु वरदेश शंभोश्लोकश्चमेऽस्तु श्रुतिगीतकीर्ते ।
श्रावश्च-मेऽस्तु-श्रुतिरस्तु-शंभोशिवभिधानश्रवणाय-नित्यम्॥५॥
ज्योतिश्चमेऽस्तु ज्वलन स्वरूपस्रुवश्चमेऽस्तु त्रिपुरासुरारे ।
प्राणश्चमे तावदपानयुक्तोव्यानश्चमेऽसुश्च तथैव चित्तम् ॥६॥
अधीतं च तथा वाक्च मनश्चक्षुश्च मे प्रभो ।श्रोत्रं दक्षो बलं चोजः सहश्चायुश्च मे प्रभो ॥७॥
जरा चात्मा च मे शंभो तनूश्शर्म च वर्म च ।अंगान्यस्थीनि भगवन् परूंषि च भवन्तु मे ॥८॥
शरीराणि भवन्त्वीश तानि रम्याणि मे प्रभो ।ज्येष्ठ्यंचमेऽधिपत्यं च मनुर्भामश्चमे प्रभो ॥९॥
अमश्चांबश्च जेमा च महिमा वरिमा च मे ।प्रथिमाचास्तु गौरीशवर्मा च द्राघुया च मे ॥१०॥
वृद्धं वृद्धिश्च सत्यं च श्रद्धा चास्तु जगच्च मे ।धनंवशास्त्वहिश्चास्तु क्रीडामोदश्च मे प्रभो॥११॥
जातं जनिष्यमाणं च सूक्तं मे सुकृतं च मे ।वित्तं वेद्यं च भूतं च भविष्यं च सुगं च मे ॥१२॥
सुपथं ऋद्धमृद्धिश्च क्लुप्तं क्लुप्तिश्च मे मतिः ।सुमतिःशं मयश्चास्तु प्रियंचास्तु शिवाशु मे॥१३॥
अनुकामश्च कामश्च शंभो सौमनसं च मे ।भद्रं श्रेयश्च वस्यश्च यशो मे सुभगश्च मे ॥१४॥
द्रविणं चास्तु यन्ता च धर्ता क्षेमश्च मे धृतिः ।विश्वं महश्च संविच्च ज्ञात्रं सूश्च प्रसूश्च मे ॥ १५॥
शीरं रयो ऋतं चास्तु भगवन्नमृतं च मे ।अयक्ष्मं चानामयच्च जीवातुश्वास्तु मे सदा॥१६॥
दीर्घायुत्वानमित्रं च सर्वदाप्यभयं च मे ।सुगं च शयनं सूषा सुदिनं चास्तु मे सदा ॥१७॥
ऊर्क्च मे सूनृता चास्तु पयश्चास्तु रसश्च मे ।घृतं मधु च सग्धिश्च सपीतिश्च कृषिश्च मे ॥१८॥
वृष्टिश्च चैत्रमौद्भिद्यं रयिश्चास्तु सदापि मे ।रायः पुष्टं च पुष्टिश्च विभु च प्रभु च प्रभो ॥१९॥
बहु भूयश्च पूर्णं च तथा पूर्णतरं च मे ।अक्षितिश्चास्तु भगवन्नूयवाश्च भवन्तु मे ॥२०॥
अन्नमन्नपते मेस्तु केनास्तु क्षुश्च मे प्रभो ।मे व्रीहयश्चयवामाषास्तिलामुद्राश्च मे शिव॥२१॥
खल्वाश्च सन्तु गोधूमा मसूराश्च प्रियंगवः ।अणवः सन्तु मे नित्यं श्यामाकाः सन्तु मे प्रभो ॥२२॥
नीवाराद्याश्च मे सन्तु गृहे सर्वान्ननायक ।अश्मा च मृत्तिका चास्तु गिरयः पर्वताश्च मे ॥२३॥
सिकताः सन्तु भगवन्मे वनस्पतयश्च मे ।हिरण्यमस्त्वयश्चास्तु तथा सीसं त्रपुश्च मे ॥२४॥
श्यामं लोहं च मेग्निश्च गृहे तिष्ठन्तु सर्वदा ।आपश्च वीरुधः संतु तथैवोषधयोऽपि मे ॥२५॥
कृष्टवच्यं च बहुधा मम तिष्ठतु वेश्मनि ।तथैवाकृष्टपच्यं च वनसंभवमस्तु मे ॥२६॥
गोमहिष्यादयो ग्राम्याः पशवः सन्तु मे गृहे ।सदा यज्ञेन कल्पन्तामारण्याः पशवश्च मे ॥२७॥
वित्तं वित्तिश्च भूतं च भूतिश्च वसतिर्वसु।शिवपूजादिकं कर्म शक्तिश्च शिवपूजने ॥२८॥
एमश्चास्तु ममेतिश्च गतिश्चास्तु शिवार्चने ।अग्निरिन्दुश्च मे सोमः सविता च सरस्वती ॥२९॥
पूषा बृहस्पतिर्मित्रस्त्वष्टा च वरुणश्च मे ।धाता विष्णुरप्यस्तु मे गृहकर्मरस्तुश्च मे ॥३०॥
अश्विनौचममेशान तिष्ठतां सर्वदा गृहे ।प्रसर्पत विश्वेदेवाश्च मे मरुतश्च मे गृहे ॥३१॥
त्वदाज्ञावशगानेतानग्नींद्रादिसुरान् शिव।मद्वशान्कुरु विश्वेश दक्षान्महकर्मणि ॥३२॥
अन्तरिक्षं च पृथिवी द्यौरप्यस्तु दिशश्च मे ।मूर्धा प्रजापतिश्चास्तु मे भवत्कृपया भव ॥३३॥
अंशुश्च रश्मिरप्यस्तु मेधाभ्योऽधिपतिश्च मे ।उपांशुरन्तर्यामश्व ममस्यादैन्द्रवायवः ॥३४॥
मे मैत्रावरुणश्चास्तु तथैवास्तु ममाश्विनः ।प्रतिप्रस्थानशुक्रौ च मंथी चाग्रयणश्च मे ॥३५॥
वैश्वदेवो ध्रुवश्चापि तथा वैश्वानरश्च मे ।मे ऋतुग्रहाश्च मे सन्तु सातिग्राह्याश्चशंकर॥३६॥
ऐन्द्राग्नौ वैश्वदेवश्च ग्रहाः सोमोपयोगिनः ।तथा मरुत्वतीयाश्च ग्रहाः सन्तु सदापि मे ॥३७॥
माहेन्द्रश्च तथादित्यः सावित्रश्चास्तु मे ग्रहाः ।सारस्वतश्च पौष्णश्च तथा पानीवतश्च मे ॥३८॥
स हारियोजनश्चास्तु ममेध्मश्चास्तु सर्वदा ।बर्हिर्वेदिश्च धिष्णियाश्च स्रुचश्च चमसाश्च मे ॥३९॥
ग्रावाणः स्वरवः सन्तु तथैवोपरवाश्च मे ।ते मे धिषवणे सन्तु ते द्रोणकलशश्च मे ॥४०॥
वायुव्यानि च मे सन्तु पूताभृच्चास्तु मे प्रभो ।तथैवाधवनीयश्च तदाग्नीत्रं च मे प्रभो ॥४१॥
हविर्दानं च मे स्वामिन्गृहाश्चैव सदश्च मे ।पुरोडाशाश्च मे स्वामिन्पचताश्च भवन्तु मे ॥४२॥
तथैवावभृतः सन्तु स्वगाकारश्च मे प्रभो ।अग्निर्घर्मश्च मेर्कश्च प्राणश्च मे प्रभो ॥४३॥
अश्वमेधश्च पृथिवी द्यौरप्यदिरस्तु मे ।मे शक्वरीरंगुलयो दिशश्च विदिशश्च मे ॥४४॥
तथा यज्ञेन कल्पंतां ऋक्च साम च मे प्रभो ।स्तोम यजुश्च दीक्षा च तपश्चास्तु ऋतुश्च मे ॥४५॥
व्रतं चाहोरात्रयोर्यदृष्ट्या तु नियमात्मकं ।बृहद्रथन्तरे यज्ञे कल्पेतां फाललोचन ॥४६॥
गर्भा वत्सश्च भगवन्त्र्यविश्वास्तु महेश्वर।त्र्यवीचमेदित्यवाट्च दित्याही च सदाशिव ॥४७॥
पंचाविश्च महादेव पंचावी च त्रिलोचन ।त्रिवत्सश्च त्रिवत्सा च तुर्यवाट्चैव मे प्रभो ॥४८॥
तुर्यौही षष्ठवाच्चास्तु षष्ठौही च महेश्वर।उक्षावंशा च ऋषभो वेहन्नड्वाञ्चमेप्रभो॥४९॥
तथास्तु धेनुरप्यस्तु भगवन्क्षीरायाति मनोहर ।यज्ञेन कल्पतामायुः प्राणोयज्ञेनकल्पताम्॥५०॥
अपानोऽपि स यज्ञेन व्यानेन सह कल्पतां ।चक्षुः श्रोत्रं च यज्ञेन मनसा सह कल्पताम् ॥५१॥
वागात्मापि तथा यज्ञोप्येवं यज्ञेन कल्पतां ।त्वदधीनमिदं सर्वं तवेति प्रार्थितं मया ॥५२॥
सर्वस्वतंत्रोऽसि महेश यस्मात्त्वमेव दातासि तवापि देयाः ।
उक्ताश्च तावच्चमकेन देहितान स्वतन्त्रांच्छिवपूजकाय ॥५३॥
तेषां प्रदेयत्वविनिश्चयेन तांदेहि मह्यं शिवपूजकाय ।
ते तावतस्मद्गृहकर्मयोग्याः योग्येनयोगस्य किलान्वयोपि ॥५४॥
एते पदार्थाः प्रथितास्त्वदीयास्तेशर्वदेयास्तव दानयोग्याः ।
अहं शिवाराधन सक्तचित्तः कोऽवामदन्योस्ति स दानयोग्यः ॥५५॥
दातापि देये सति दानयोग्यंविहाय कस्मैप्रददाति भक्त्या ।
विद्वानतो देहि महेश तान्मेलोके मदन्यस्तु न कोऽपि पात्रम् ॥५६॥
त्वद्दत्तमेतादृशभाग्यमेत्यत्वत्पादपूजानिरतो भवानि ।
प्रमादलेशोऽपि तदा न बाविभवे भवे त्वत्पदपूजकस्य ॥५७॥
महाप्रभुः शंभुरुमासहायोदयामयो भूतिमयोऽपिदाता ।
माता पिता मे स हित प्रदाताधाता विधाता परमोतसंदृक् ॥५८॥
मन्ये शंकर देवदेव तवतद्दातृत्वमव्याहतं
तेनाग्निप्रमुखान्सुरानपि सदातान्न स्वतंत्रान्स्वतः।
मह्यं देहि मदिच्छया परमिमाकुर्वन्तु कृत्यानि मे।
शक्तिर्यस्य यथा यथास्ति भगवन्-सर्वस्वतन्त्र प्रभो ॥५९॥
देयत्वेन विनिश्चितास्तवसुराःसर्वेऽपि वेदैरपि।
दाता त्वं तव भाग्यमप्यविलयंभूयः समुज्जृंभते ।
अस्माकं तु महाप्रभुर्भवा-नैवेति चित्तं मुहुः।
स्वानंदांबुधिवीचिकातिचपलालीलाविलासास्पदम् ॥६०॥
॥ स्वस्ति श्री शिवरहस्ये हराख्ये तृतीयांशे पूर्वार्धे शिलादकृत चमक विधान प्रार्थनं चतुस्त्रिंशः ॥
॥साम्बसदाशिवार्पणमस्तु ॥
महाभारतांतर्गत
कृष्णार्जुनावूचतुः
नमो भवाय शर्वाय रुद्राय वरदाय च ।पशूनां पतये नित्यमुग्राय च कपर्दिने महादेवाय भीमाय त्र्यम्बकाय च शान्तये ।ईशानाय मखघ्नाय नमोऽस्त्वन्धकघातिने॥ कुमारगुरवे तुभ्यं नीलग्रीवाय वेधसे ।पिनाकिने हविष्याय सत्याय विभवे सदा ॥विलोहिताय ध्रूम्राय व्याधायानपराजिते ।नित्यं नीलशिखण्डाय शूलिने दिव्यचक्षुषे ॥होत्रे पोत्रे त्रिनेत्राय व्याधाय वसुरेतसे ।अचिन्त्यायाम्बिकाभर्त्रे सर्वदेवस्तुताय च ॥वृषध्वजाय मुण्डाय जटिने ब्रह्मचारिणे ।तप्यमानाय सलिले ब्रह्मण्यायाजिताय च ॥विश्वात्मने विश्वसृजे विश्वमावृत्य तिष्ठते ।नमोनमस्ते सेव्याय भूतानां प्रभवे सदा ॥ब्रह्मवक्त्राय सर्वाय शंकराय शिवाय च ।नमोस्तु वाचस्पतये प्रजानां पतये नमः ॥अभिगम्याय काम्याय स्तुत्यायार्याय सर्वदा ।
नमोऽस्तु देवदेवाय महाभूतधराय च ।नमो विश्वस्य पतये पत्तीनां पतये नमः ॥नमो विश्वस्य पतये महतां पतये नमः ।नमः सहस्रशिरसे सहस्रभुजमृत्यवे॥
सहस्रनेत्रपादाय नमोऽसङ्ख्येयकर्मणे ।
नमो हिरण्यवर्णाय हिरण्यकवचाय च ।भक्तानुकम्पिने नित्यं सिध्यतां नो वरः प्रभो ॥
सञ्जय उवाच :
एवं स्तुत्वा महादेवं वासुदेवः सहार्जुनः ।प्रसादयामास भवं तदा ह्यस्त्रोपलब्धये ॥
॥ इति श्रीमन्महाभारते द्रोणपर्वणि प्रतिज्ञा पर्वणि अर्जुनस्वप्ने अशीतितमोऽध्यायः ॥
