क्षमा प्रार्थना

तावकस्त्वद्गुणप्राणस्त्वच्चित्तोऽहं सदा मृड ।
कृपानिधे इति ज्ञात्वा भूतनाथ प्रसीद मे ॥
अज्ञानाद्यदि वा ज्ञानाज्जप पूजादिकं मया ।
कृतं तदस्तु सफलं कृपया तव शंकर ॥
अहं पापी महानद्य पावनश्च भवान्महान् ।
इति विज्ञाय गौरीश यदिच्छसि तथा कुरु ॥
वेदैः पुराणैः सिद्धान्तैरृषिभिर्विविधैरपि ।
न ज्ञातोऽसि महादेव कुतोऽहं त्वं महाशिव ॥
यथा तथा त्वदीयोऽस्मि सर्वभावैर्महेश्वर ।
रक्षणीयस्त्वयाऽहं वै प्रसीद परमेश्वर ॥
क्षमापण
ॐ अंगहीनं क्रियाहीनं विधिहीनं महेश्वर ।
पूजितोऽसि महादेव तत् क्षमस्व भ्रमात्कृतम् ॥यद्यप्युदाहृतैः पुष्पैरपास्तैर्भावदूषितैः ।केशकीटापविद्धैश्च पूजितोऽसि मया प्रभो ॥अन्यत्रासक्तचित्तेन क्रियाहीनेन वा प्रभो ।मनोवाक्कायदुष्टेन पूजितोऽसि त्रिलोचन ॥यच्चोपहतपात्रेण कृतमर्घ्यादिकं मया ।तामसेन च भावेन तत्क्षमस्व मम प्रभो ॥मन्त्रेणाक्षरहीनेन पुष्पेण विफलेन च ।पूजितोऽसि महादेव तत्सर्वं क्षम्यतां मम ॥व्रतं सम्पूर्णतां यातु फलं चाक्षयमश्नुते ।
अज्ञानयोगादुपचारकर्मं
यत्पूर्वमस्माभिरनुष्ठितं ते ।तदैव सोद्वासनकं दयालोपितेव पुत्रान्प्रतनो जुषस्व ॥अयं दानकालस्त्वहं दानपात्रंभवानेव दाता त्वदन्यं न याचे ।भवद्भक्तिमन्तः स्थिरां देहि मह्यंकृपाशील शम्भो कृतार्थोऽस्मि यस्मात् ॥ॐ नमोंकाररूपाय नमोऽक्षरवपुर्धृते ।
नमो नादात्मने तुभ्यं नमो बिन्दुकलात्मने ॥
अलिंगलिंगरूपाय रूपातीताय ते नमः ।
त्वं माता सर्वलोकानां त्वमेव जगतः पिता ॥त्वं भ्राता त्वं सुहृन्मित्रं त्वं प्रियः प्रियरूपधृक् ।
त्वं गुरुस्त्वं गतिः साक्षात्त्वं पिता त्वं पितामहः ॥
नमस्ते भगवन् रुद्र भास्करामिततेजसे ।
नमो भवाय रुद्राय रसायाम्बुमयाय च ॥शर्वाय क्षितिरूपाय सदा सुरभिणे नमः ।पशूनांपतये तुभ्यं पावकामिततेजसे ॥भीमाय व्योमरूपाय शब्दमात्राय ते नमः ।महादेवाय सोमाय अमृताय नमोऽस्तु ते ॥उग्राय यजमानाय नमस्ते कर्मयोगिने ।पार्थिवस्य च लिङ्गस्य यन्मया पूजनं कृतम् ॥तेन मे भगवान् रुद्रो वांछितार्थं प्रयच्छतु ॥
करचरणकृतं वा कायजं कर्मजं वा ।
श्रवण नयनजं वा मानसं वापराधम् ॥विहितमवहितं वा सर्वमेतत् क्षमस्व ।
जय जय करुणाब्धे श्री महादेव शम्भो ॥
