शतनाम
॥ शिवरहस्योक्त शिव अष्टोत्तरशतनाम ॥
पार्वत्युवाचशरीरार्धमहं शम्भोर्येन प्राप्स्यामि केशव ।
तदिदानीं समाचक्ष्व स्तोत्रं शीघ्रफलप्रदम् ॥नारायण उवाच
अस्ति गुह्यतमं गौरि नाम्नामष्टोत्तरं शतम् ।शम्भोरहं प्रवक्ष्यामि पठतां शीघ्रकामदम् ॥
ॐ अस्य श्रीशिवाष्टोत्तरशतदिव्यनामस्तोत्रमालामन्त्रस्य नारायणऋषिः । अनुष्टुप्छन्दः । श्रीसदाशिवः परमात्मा देवता । गौरी उमा शक्तिः । श्रीसाम्बसदाशिवप्रीत्यर्थे जपे विनियोगः ॥
॥ अथ ध्यानम् ॥
शान्ताकारं शिखरिशयनं नीलकण्ठं सुरेशंविश्वधारं स्फटिकसदृशं शुभ्रवर्णं शुभाङ्गम् ।
गौरीकान्तं त्रितयनयनं योगिभिर्ध्यानगम्यंवन्दे शम्भुं भवभयहरं सर्वलोकैकनाथम् ॥
धवलवपुषमिन्दोर्मण्डले संनिविष्टंभुजगवलयहारं भस्मदिग्धाङ्गमीशम् ।
हरिणपरशुपाणिं चारुचन्द्रार्धमौलिंहृदयकमलमध्ये सन्ततं चिन्मयामि ॥श्रीविष्णुरुवाच
ॐ शिवो महेश्वरश्शम्भुः पिनाकी शशिशेखरः ।वामदेवो विरूपाक्षः कपर्दी नीललोहितः ॥१॥शङ्करश्शूलपाणिश्च खट्वाङ्गी विष्णुवल्लभः ।शिपिविष्टोऽम्बिकानाथः श्रीकण्ठोभक्तवत्सलः ॥२॥भवश्शर्वस्त्रिलोकेशश्शितिकण्ठश्शिवाप्रियः ।उग्रः कपाली कामारिरन्धकासुरसूदनः ॥३॥
गङ्गाधरो ललाटाक्षः कालकालः कृपानिधिः ।भीमः परशुहस्तश्च मृगपाणिर्जटाधरः ॥४॥
कैलासवासी कवची कठोरस्त्रिपुरान्तकः ।वृषाङ्को वृषभारूढो भस्मोद्धूलितविग्रहः ॥५॥
सामप्रियस्स्वरमयस्त्रयीमूर्तिरनीश्वरः ।सर्वज्ञः परमात्मा च सोमसूर्याग्निलोचनः ॥६॥
हविर्यज्ञमयस्सोमः पञ्चवक्त्रस्सदाशिवः ।विश्वेश्वरो वीरभद्रो गणनाथः प्रजापतिः ॥७॥
हिरण्यरेता दुर्धर्षः गिरीशो गिरिशोऽनघः ।भुजङ्गभूषणो भर्गो गिरिधन्वा गिरिप्रियः ॥८॥
कृत्तिवासा पुरारातिर्भगवान् प्रमथाधिपः ।मृत्युञ्जयस्सूक्ष्मतनुर्जगद्व्यापी जगद्गुरुः ॥९॥
व्योमकेशो महासेनजनकश्चारुविक्रमः ।रुद्रो भूतपतिः स्थाणुरहिर्बुध्न्यो दिगम्बरः ॥१०॥
अष्टमूर्तिरनेकात्मा सात्त्विकश्शुद्धविग्रहः ।शाश्वतः खण्डपरशुरजः पाशविमोचकः ॥११॥
मृडः पशुपतिर्देवो महादेवोऽव्ययः प्रभुः ।पूषादन्तभिदव्यग्रो दक्षाध्वरहरो हरः ॥१२॥
भगनेत्रभिदव्यक्तो सहस्राक्षस्सहस्रपात् ।अपवर्गप्रदोऽनन्तस्तारकः परमेश्वरः ॥१३॥
॥ इति शिवरहस्यान्तर्गते विष्णुप्रोक्तं शिवाष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ॥
॥ स्कन्दपुराणोक्त शिव अष्टोत्तरशतनाम ॥
देवा ऊचुः
ॐ जय शम्भो विभो रुद्र स्वयम्भो जय शङ्कर ।जयेश्वर जयेशान जय सर्वज्ञ कामद ॥१॥
नीलकण्ठ जय श्रीद श्रीकण्ठ जय धूर्जटे ।अष्टमूर्तेऽनन्तमूर्ते महामूर्ते जयानघ ॥२॥
जय पापहरानङ्गनिःसङ्गाभङ्गनाशन ।जय त्वं त्रिदशाधार त्रिलोकेश त्रिलोचन ॥३॥
जय त्वं त्रिपथाधार त्रिमार्ग त्रिभिरूर्जित ।त्रिपुरारे त्रिधामूर्ते जयैकत्रिजटात्मक ॥४॥
शशिशेखर शूलेश पशुपाल शिवाप्रिय ।शिवात्मक शिव श्रीद सुहृच्छ्रीशतनो जय ॥५॥
सर्व सर्वेश भूतेश गिरिश त्वं गिरीश्वर ।जयोग्ररूप मीमेश भव भर्ग जय प्रभो ॥६॥जय दक्षाध्वरध्वंसिन्नन्धकध्वंसकारक ।रुण्डमालिन् कपालिंस्थं भुजङ्गाजिनभूषण ॥७॥दिगम्बर दिशां नाथ व्योमकेश चिताम्पते ।जयाधार निराधार भस्माधार धराधर ॥८॥
देवदेव महादेव देवतेशादिदैवत ।वह्निवीर्य जय स्थाणो जयायोनिजसम्भव ॥९॥
भव शर्व महाकाल भस्माङ्ग सर्पभूषण ।त्र्यम्बक स्थपते वाचाम्पते भो जगताम्पते ॥१०॥
शिपिविष्ट विरूपाक्ष जय लिङ्ग वृषध्वज ।नीललोहित पिङ्गाक्ष जय खट्वाङ्गमण्डन ॥११॥
कृत्तिवास अहिर्बुध्न्य मृडानीश जटाम्बुभृत् ।जगद्भ्रातर्जगन्मातर्जगत्तात जगद्गुरो ॥१२॥
पञ्चवक्त्र महावक्त्र कालवक्त्र गजास्यभृत् ।दशबाहो महाबाहो महावीर्य महाबल ॥१३॥
अघोरघोरवक्त्र त्वं सद्योजात उमापते ।सदानन्द महानन्द नन्दमूर्ते जयेश्वर ॥१४॥एवमष्टोत्तरशतं नाम्नां देवकृतं तु ये ।शम्भोर्भक्त्या स्मरन्तीह शृण्वन्ति च पठन्ति च ॥१५॥न तापास्त्रिविधास्तेषां न शोको न रुजादयः ।ग्रहगोचरपीडा च तेषां क्वापि न विद्यते ॥१६॥
श्रीः प्रज्ञाऽऽरोग्यमायुष्यं सौभाग्यं भाग्यमुन्नतिम् ।विद्या धर्मे मतिः शम्भोर्भक्तिस्तेषां न संशयः ॥१७॥
॥ इति श्रीस्कन्दपुराणे सह्याद्रिखण्डे शिवाष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ॥
