
सूत उवाच
शृणुध्वमृषयः सर्वे सद्भक्त्या हरतोऽखिलाः ।शिवपार्थिवलिंगस्य महिमा प्रोच्यते मया ॥उक्तेष्वेतेषु लिंगेषु पार्थिवं लिंगमुत्तमम् ।तस्य पूजनतो विप्रा बहवः सिद्धिमागताः ॥हरिर्ब्रह्मा च ऋषयः सप्रजापतयस्तथा ।संपूज्य पार्थिवं लिंगं प्रापुःसर्वेप्सितं द्विजाः ॥देवासुरमनुष्याश्च गंधर्वोरगराक्षसाः ।अन्येपि बहवस्तं संपूज्य सिद्धिं गताः परम् ॥कृते रत्नमयं लिंगं त्रेतायां हेमसंभवम् ।द्वापरे पारदं श्रेष्ठं पार्थिवं तु कलौ युगे ॥अष्टमूर्तिषु सर्वासु मूर्तिर्वै पार्थिवी वरा ।अनन्यपूजिता विप्रास्तपस्तस्मान्महत्फलम् ॥यथा सर्वेषु देवेषु ज्येष्ठः श्रेष्ठो महेश्वरः ।एवं सर्वेषु लिंगेषु पार्थिवं श्रेष्ठमुच्यते ॥यथा नदीषु सर्वासु ज्येष्ठा श्रेष्ठा सुरापगा ।तथा सर्वेषु लिंगेषु पार्थिवं श्रेष्ठमुच्यते ॥यथा सर्वेषु मंत्रेषु प्रणवो हि महान्स्मृतः ।तथेदं पार्थिवं श्रेष्ठमाराध्यं पूज्यमेव हि ॥यथा सर्वेषु वर्णेषु ब्राह्मणःश्रेष्ठ उच्यते ।तथा सर्वेषु लिंगेषु पार्थिवं श्रेष्ठमुच्यते ॥यथा पुरीषु सर्वासु काशीश्रेष्ठतमा स्मृता ।तथा सर्वेषु लिंगेषु पार्थिवं श्रेष्ठमुच्यते ॥यथा व्रतेषु सर्वेषु शिवरात्रिव्रतं परम् ।तथा सर्वेषु लिंगेषु पार्थिवं श्रेष्ठमुच्यते ॥यथा देवीषु सर्वासु शैवीशक्तिः परास्मृता ।तथा सर्वेषु लिंगेषु पार्थिवं श्रेष्ठमुच्यते ॥प्रकृत्यपार्थिवं लिंगं योन्यदेवं प्रपूजयेत् ।वृथा भवति सा पूजा स्नानदानादिकं वृथा ॥पार्थिवाराधनं पुण्यं धन्यमायुर्विवर्धनम् ।तुष्टिदं पुष्टिदं श्रीदं कार्यं साधकसत्तमैः ॥यथा लब्धोपचारैश्च भक्त्या श्रद्धासमन्वितः ।पूजयेत्पार्थिवं लिंगं सर्वकामार्थसिद्धिदम् ॥यः कृत्वा पार्थिवं लिंगे पूजयेच्छुभवेदिकम् ।इहैव धनवाञ्छ्रीमानंते रुद्रो भिजायते ॥त्रिसंध्यं योर्चयंल्लिंगं कृत्वा बिल्वेन पार्थिवम् ।दशैकादशकंयावत्तस्य पुण्यफलं शृणु ॥अनेनैव स्वदेहेन रुद्र लोके महीयते ।पापहं सर्वमर्त्यानां दर्शनात्स्पर्शनादपि ॥जीवन्मुक्तः स वैज्ञानी शिव एव न संशयः ।तस्य दर्शनमात्रेण भुक्तिर्मुक्तिश्च जायते ॥शिवं यः पूजयेन्नित्यं कृत्वा लिंगं तु पार्थिवम् ।यावज्जीवनपर्यंतं स याति शिवमन्दिरम् ॥मृडेनाप्रमितान्वर्षाञ्छिवलोकेहि तिष्ठति ।सकामः पुनरागत्य राजेन्द्रो भारते भवेत् ॥निष्कामः पूजयेन्नित्यं पार्थिवंलिंगमुत्तमम् ।शिवलोके सदा तिष्ठेत्ततः सायुज्यमाप्नुयात् ॥पार्थिवं शिवलिंगं च विप्रो यदि न पूजयेत् ।स याति नरकं घोरं शूलप्रोतं सुदारुणम् ॥यथाकथंचिद्विधिना रम्यं लिंगं प्रकारयेत् ।पंचसूत्रविधानां च पार्थिवेन विचारयेत् ॥अखण्डं तद्धि कर्तव्यं न विखण्डं प्रकारयेत् ।द्विखण्डं तु प्रकुर्वाणो नैव पूजाफलं लभेत् ॥रत्नजं हेमजं लिंगं पारदं स्फाटिकं तथा ।पार्थिवं पुष्परागोत्थमखंडं तु प्रकारयेत् ॥अखंडं तु चरं लिंगं द्विखंडमचरं स्मृतम् ।खंडाखंडविचारोयं सचराचरयोः स्मृतः ॥वेदिका तु महाविद्या लिंगं देवो महेश्वरः ।अतो हि स्थावरे लिंगे स्मृता श्रेष्ठादिखंडिता ॥द्विखंडं स्थावरं लिंगं कर्तव्यं हि विधानतः ।अखंडं जंगमं प्रोक्तं शैवसिद्धान्तवेदिभिः ॥द्विखंडं तु चरां लिंगं कुर्वन्त्यज्ञानमोहिताः ।नैव सिद्धान्तवेत्तारो मुनयः शास्त्रकोविदाः ॥अखंडं स्थावरं लिंगं द्विखंडं चरमेव च ।येकुर्वन्तिनरामूढानपूजाफलभागिनः ॥तस्माच्छास्त्रोक्तविधिना अखंडं चरसंज्ञकम् ।द्विखंडं स्थावरं लिंगं कर्तव्यं परया मुदा ॥अखंडे तु चरे पूजा सम्पूर्णफलदायिनी ।द्विखंडे तु चरे पूजामहाहानिप्रदा स्मृता ॥अखंडे स्थावरे पूजा न कामफलदायिनी ।प्रत्यवायकरी नित्यमित्युक्तं शास्त्रवेदिभिः ॥
॥ इति श्रीशिवमहापुराणे विद्येश्वरसंहितायां साध्य साधन खंडे पार्थिव शिवलिंग पूजनमाहात्म्य वर्णनं नामैकोनविंशोऽध्यायः ॥
